Archive for the 'sanskrit' Category

सुभाषितानि |

sanalmadatheth June 2nd, 2008

दशकूप समो वापी
दश वापी समॊ ह्रद्ः |
दश ह्रदसमॊ पुत्रः |
दश पुत्र समॊ द्रुमः |

विहाय पौरुषं यॊ हि
दैवमॆवावलम्बतॆ
प्रासाद सिंहवत्तस्य मूर्ध्नि
तिष्ठन्ति वायसाः | |

इदं हि माहात्म्यविशॆषसूचकं
वहन्ति चिह्नं महतां मनीषिणः |
मनॊ यदॆषां सुखदुखसम्भवॆ
प्रयाति नॊ हर्षविषादवश्यताम् | |

एकस्य कर्म संवीक्ष्य
करॊत्यन्यॊपि गर् हितम् |
गतानुगतिकॊ लॊकॊ
न लॊकः पारमार् थिकः | |